श्री विन्ध्येश्वरी स्तोत्रम् - Shri Vindhyeshwary Strotram in Hindi
निशुम्भ-शुम्भ गर्जनीं, प्रचण्ड मुण्ड खन्डिनीं ।
वने रणे प्रकशिनीं, भजामि विन्ध्यवासिनीम् ॥
त्रिशूल मुण्ड धारिणीं, धराविघातहारिणीं ।
गृहे - गृहे निवासिनीं, भजामि विन्ध्यवासिनीम् ॥
दरिद्र् दुःख हारिणीं, सदा विभूतिकारिणीं ।
वियोगशोक हारिणीं, भजामि विन्ध्यवासिनीम् ॥
लसत्सुलोल लोचनं, लता सदम्बरप्रदां ।
कपाल - शूल धारिणीं, भजामि विन्ध्यवासिनीम् ॥
कराब्जदानदाधरां, शिवाशिवां प्रदायिनीं ।
वरा - वराननां शुभां, भजामि विन्ध्यवासिनीम् ॥
कपीन्द्र - जामिनीप्रदां, त्रिधास्वरूपधारिणीं ।
जले - थले निवासिनीं, भजामि विन्ध्यवासिनीम् ॥
विशिष्ट - सृष्टिकारिणीं, विशालरूप धारिणीं ।
महोदरे - विशालिनीं, भजामि विन्ध्यवासिनीम् ॥
पुरन्दरादिसेवितां, मुरादिवंशखंडिनीं ।
विशुद्ध - बुद्धिकारिणीं, भजामि विन्ध्यवासिनीम् ॥
।। इति श्री विन्ध्येश्वरीस्तोत्रम् समाप्त ।।

Comments
Post a Comment