श्री विन्ध्येश्वरी स्तोत्रम् - Shri Vindhyeshwary Strotram in Hindi
।। श्री विन्ध्येश्वरी स्तोत्रम् ।। निशुम्भ-शुम्भ गर्जनीं, प्रचण्ड मुण्ड खन्डिनीं । वने रणे प्रकशिनीं, भजामि विन्ध्यवासिनीम् ॥ त्रिशूल मुण्ड धारिणीं, धराविघातहारिणीं । गृहे - गृहे निवासिनीं, भजामि विन्ध्यवासिनीम् ॥ दरिद्र् दुःख हारिणीं, सदा विभूतिकारिणीं । वियोगशोक हारिणीं, भजामि विन्ध्यवासिनीम् ॥ लसत्सुलोल लोचनं, लता सदम्बरप्रदां । कपाल - शूल धारिणीं, भजामि विन्ध्यवासिनीम् ॥ कराब्जदानदाधरां, शिवाशिवां प्रदायिनीं । वरा - वराननां शुभां, भजामि विन्ध्यवासिनीम् ॥ कपीन्द्र - जामिनीप्रदां, त्रिधास्वरूपधारिणीं । जले - थले निवासिनीं, भजामि विन्ध्यवासिनीम् ॥ विशिष्ट - सृष्टिकारिणीं, विशालरूप धारिणीं । महोदरे - विशालिनीं, भजामि विन्ध्यवासिनीम् ॥ पुरन्दरादिसेवितां, मुरादिवंशखंडिनीं । विशुद्ध - बुद्धिकारिणीं, भजामि विन्ध्यवासिनीम् ॥ ।। इति श्री विन्ध्येश्वरीस्तोत्रम् समाप्त ।।